2010-10-21

संस्कृतोच्चारणम्

श्रवणवचनयोः साधनरूपेण शब्देन अर्थप्रतिपत्तिरिति सामान्य आचारः । संस्कृतस्य विशेषतया शब्दः प्रधानांशः, यतः शब्दपरम्परयैव वेदपुराणादीनि अध्याप्यन्ते स्म ।
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ।
व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥
अमरोक्त्यामस्यां भाषायाः पर्यायपदानि नैकानि वाचं हि सूचयन्ति इत्यतः शब्दस्य प्राधान्यं स्पष्टं विज्ञायते । वेदपाठे सम्भाषणे वा शब्दे दुरुच्चार्यमाणे, विपरीतार्थः भ्रमः दुष्परिणामाः वा फलिता भवन्ति ।
अथ उच्चारणे शङ्काः समाधातुं प्रमाददोषान् निवारयितुं प्रयत्नोयं क्रियते । अपि भारतवर्षे पालिता सा विश्ववाणीति मनसि निधाय, एकैकस्य इतरभाषिणः विशेषक्लेशा आलोच्यन्ते ।
प्रयत्नोयं न मे शिक्षानैपुण्यात् कृतः, न वा वाक्शुद्धतया, प्रत्युत पूर्वाचार्याणां वचनमौक्तिकानाम् आधारेण । मतमिदं शृण्वद्भिः, दोषान् उपेक्षमाणैः, गुणमात्रं गृह्णद्भिः, प्रतिस्पन्दनानुग्रहः दीयताम् इति सविनयं प्रार्थये । [प्रार्थनामिमाम् अङ्गीकृत्य आत्रेयः रङ्गनाथः प्रतिस्पन्दनप्रेषणेन लेखम् उत्कर्षितवान् इति सन्तोषस्य स्थानम्]

सरलतराः प्रमादाः

  • प्राणभेदाः — अक्षरमालायाम् आदिमानि पञ्चविंशतिः स्पर्शाक्षराणि प्रत्येकस्याम् आवल्यां कखौ गघौ चछौ इत्यादीनि प्राणशक्त्या भिद्यन्ते । एकैकस्य युगलस्य प्रथमवर्णोल्पप्राणः, अपरो महाप्राण इत्यभिधीयेते । भेदोयं सर्वैः अवधेयः, विशेषतया भारतीयेषु द्रमिडभाषिभिः द्रमिडवाचि महाप्राणानाम् अभावात् । अमेरिकास्थायाम् आङ्लभाषायां बहुधा प्राणमहत्त्वम् आचर्यते इत्यतः तया वदन्तोपि अत्रावधानं दद्युः ।
  • चजौ — उभौ तालव्यौ । महाराष्ट्रीयाः आन्ध्राश्च संयुक्ताक्षराणीव त्स्यवत् द्ज्यवद्वा  क्वचित् उच्चारयेयुः । तत्त्यागः शोभते ।
  • शषसाः — सकारो दन्त्यः श्रुतप्रायः1 इत्यतः सर्वे तं समुच्चारयन्त्येव । शषोः भ्रमस्तु प्रचुरः । नियमानुसारं षकारो मूर्धन्यः, शकारस्तालव्य इति । तर्हि मूर्धा तालुश्च कावित्यवेत्य भेदो ज्ञातुं शक्यः । अंशोयं Wikipedia-विद्यावल्यां संयग्विवृतमस्ति2 । अथवा मार्गान्तरम् आश्रयणीयम् – इतरमूर्धन्यं टकारम् उपेत्य ऊष्मा क्रियते चेत् षकारः सिध्यति । यथा टषोः सम्बन्धः तथैव चशोरिति । चकारम् उपेत्य ऊष्मा विधीयते चेच्छकारः साधितः । स्मर्तव्यं मूर्धन्यानाम् उच्चारणवैशिष्ट्यं यत् जिह्वाग्रभागः कण्ठम् उद्दिश्य प्रतिनिवर्तितो (retroflex) भवेत् ।
  • जयौ — आर्यवर्ते एव भ्रान्तिरियं विराजते । प्राकृतासु वाक्षु बहुत्र यकारस्य जकारो भवति । यदोरुत्पन्नं यादवकुलनाम जादवेति । या प्रापणे जा इत्यपि । यकारः अन्तःस्थः, जकारः स्पर्शव्यञ्जनः इति स्मार्यम् ।
  • बवौ — प्रमादोयं भारतस्य पूर्वेषु देशेषु तेष्ठीयते । वङ्गभाषायां स्वराविमौ एकीभूतौ । अन्यत्रापि विहारदेशे वकारस्थाने बकारः उपयुज्यते । अत्रापि वकारोन्तःस्थः, बकारः स्पर्शव्यञ्जनश्चेति मन्तव्यम् ।
  • फकारः — अयं तु पकारावल्यां द्वितीयः श्वासानुप्रदानः अघोषश्च । नायम् ऊष्माक्षरं, प्रत्युत स्पर्शाक्षरम् । पारसीमर्यादाः अनुसृत्य तद्वदुच्चारः तुरुष्काधिष्ठितेषु प्रदेशेषु क्रियते । स दुष्टः ।
  • ञकारः — एष तालव्यश्च अनुनासिकश्चेति । अन्यतालव्यवत् चजवत् किल उच्चार्यः; न्यवत् नैव । यद्यपि यकारस्वरश्च तालव्यः ञकारे यकारश्रुतिः अकार्या ।
  • ज्ञकारः — संयुक्ताक्षरमिदं जकारञकारयोः इत्यत्र न संशयः । ईदृशः अननुनासिकेन अनुनासिकस्य संयोगाः अनेके ननु विद्यन्ते – याच्ञा, लग्नः, विघ्नः, प्रयत्नः, पद्मा, पाप्मा इत्यादिषु । परन्तु अस्मिन्नेव संयुक्ताक्षरे पूर्वोक्तां ञकारस्थां यकारश्रुतिम् आधारीकृत्य दोषान्तरम् अपि निर्मीयते उत्तरभारते अन्यत्रापि क्वचित् । यत् जकारस्य स्थाने गकारश्रवणम् । तन्निवारणं वरम् । [संस्कृतम् अब्राह्म्यलिपिद्वारा (non-Indic scripts) लेखितुं बह्व्यः परिवर्तनयोजनाः (transliteration schemes) प्राप्यन्ते । तास्वन्यतमा प्रचुरा ITrans-नाम्नी । दौर्भाग्यात् शिक्षाम् अज्ञातवद्भिः रचितायामस्यां ज्ञकारं सूचयितुं ‘gy’ इति मार्गान्तरम् । ईदृशाम् दुष्प्रयोगाणां बाहुल्यादेव ITrans इत्यस्य अपेक्षया योजनान्तरं प्रयुज्यताम् । ISO-15919 इति UN-standard वर्तते यत् बहुषु पुस्तकादिषु चिरकालात् उपयुज्यते । तच्च सङ्गणकप्रयोगेपि भवतु ।]
  • रेफः — प्रायः अमेरिकीयानाम् एव भ्रमोत्र उत्पद्यते । रेफो नाम कश्चन शब्दः क्रकचवत् । रेफोच्चारणे रेफ इव जिह्वायाः शीघ्रतरं कम्पनं भवेत् । अतो द्रवमयः शब्दः (liquid consonant) मा भूत् । चीनजपानदेशीयानाञ्च लकाररेफयोर्भ्रमः; परन्तु एष भ्रमः संस्कृतोच्चारेण विशिष्ट इति न, प्रत्युत सार्वत्रिकः ।
  • ऋकारः तत्सम्बद्धदीर्घश्च — ह्रस्वर्कारः । संस्कृतमविहाय बह्व्यः भाषाः शब्दानुसारिण्यः (phonetic languages) । तासां विशेषलक्षणं प्रत्येकम् अक्षरस्य एकशब्दत्वम् । एकैकं ध्वनिं सूचयितुम्, अक्षरबाहुल्यं भवितुं नार्हति । तस्मात् हिमालयात् आमहाराष्ट्रं विद्यमानं ‘रि’वत् उच्चारणं वा आन्ध्रकर्णाटकयोः देशयोः आचर्यमाणं ‘रु’वत् उच्चारणं वा असमीचीन इति । [अस्मात् रि-वदुच्चारात् जातेषु प्रमादेषु अन्यतमः यत् सङ्गीतस्य द्वितीयस्वरस्य रिवत् (रेवत् वा) उच्चारणम् । तत्स्वरस्य सम्पूर्णं नाम ‘ऋषभः’ इति ।] तर्हि कथम्? स्वरेस्मिन् ऋकारे रेफश्रुतिर्विहिता इत्यत्र शिक्षाशास्त्रं प्रमाणम् । तच्छास्त्रादेव, रेफश्रुतेः पूवपरयोः स्वरो विहितः । अग्रे अवगन्तुं वेदाध्ययनस्य श्रुतिपरम्परा आश्रयणीया । वेदविद्भिः वेदस्थस्य ऋकारस्य उच्चारणं श्राव्यम् । उकारवत् परन्तु अगोलीकृतात् मुखद्वारात् कश्चन ध्वनिः (closed central unrounded vowel) एव वेदविदुषाम् उच्चारणातः सम्पन्नः भवति । दीर्घस्वर ॠकारश्च ऋकारस्य दीर्घीकरणमेव । रीवत् रूवत् अन्यविधा वा उच्चारणा त्याज्या ।

सूक्ष्मतराः भ्रमाः

  • ऌ/लृ — स्वरेषु ऋकारल्कारयोः अत्यन्तसम्बन्धः, क्वचित् सवर्णत्वमपि । भेद ऋकारस्य मूर्धन्यत्वं ऌकारस्य दन्त्यतैव । स्मर्तव्यम् ऌकारोयं केवलदन्त्य इति । कण्ठतालव्यौ कण्ठोष्ट्यौ दन्त्योष्ट्यौ खलु विद्यन्ते, परन्तु ऌकारः कश्चित् दन्त्यमूर्धन्य इति नाभिहितः । अनेन समभिज्ञायते यदॢकारे रेफश्रवणं मा भूत्3 । अन्यविधाः स्वरनिमित्ता नियमाः, उपरि ऋकाराध्याये अवलोकनीयाः । इदंसम्बद्धम् अक्षरान्तरं लृ इति । स च स्यात् परेण ऋकारेण सहितो लकारः, यत्र ऋकारादुत्पन्ना रेफश्रुतिः भवेदेव । प्रायः अक्षरमिदं व्याकरणे एव विश्रुतः दशसु लकारेषु अन्यतमयोः लृट्लृङोः । अभिज्ञातव्यं यत् अनयो ऌल्रोः प्रमादकारी रूपसम्बन्धः देवनागर्यां लिप्याम् एव । ग्रन्थादिलिपिषु रूपयोरनयोः स्वल्पोपि सम्बन्धो नास्ति । [प्रश्न उत्पद्यते यत् अयं भ्रमः तन्निमित ऌकारे रेफशब्दश्च कुतो वा सम्पन्नाविति । समाधानद्वयं स्फुरति । यत् ऌकारस्य वैरल्यात् स च लृकार एवेति चिन्तनं, तस्मात् शब्दभ्रमस्य कथमपि जन्म; कालक्रमेण ऌकारस्य क्वाचित्कात् नूतनरूपं निर्मातव्यम् आसीत् यद्रूपं लृकारसम्बद्धम् अभवत् । इदानीमपि बहुषु उत्तरभारते प्रकाशितेषु पुस्तकेषु ऌकारलृकारयोः रूपसमानता दृश्यते, यत्र यत्र नवीनं चिह्नं प्रायेण अनिर्मितम् । पक्षान्तरं यत् देवनागर्यां लिपिसम्बन्ध एव प्रथमः, येन जनितः ऌकारे रेफश्रुतिप्रमादः । अनयोः तथ्यम् अन्वेष्यम् ।]
  • लाघवगौरवे — ह्रस्वं लघु, संयोगे गुरु, दीर्घञ्च इति सूत्राणि4 । यद्यपि ऋकारे रेफश्रुतिः तथापि स्वर एव सः । कृखृग्रादयः संयुक्ताः न । तादृग्भ्यः अक्षेरेभ्यः प्राक् विद्यमाना इतरे ह्रस्ववर्णाः लघवः एव, संयोगे गुरु इत्यस्य अविहितत्वात् । उदाहरणेन ‘विकृति’ शब्दस्य प्रथमाक्षरं ह्रस्वं लघु, अतः स शब्दः ‘विक्कृति’ इति नैव उच्चार्यः । तथैव ‘डुकृञ्’ न ‘डुक्कृञ्’, ‘विवृणोति’ न ‘विव्वृणोति’, ‘चतसृणां’ न ‘चतस्सृणां’, ‘शतृ’ न ‘ शत्तृ’ ‘शत्रु’ वा । ‘निरृति’ पदम् अस्पष्टतरं, यतः कदाचित् ‘निर्ऋति’ इति लिख्यते । तल्लेखनं निर्रृतिवदुच्चारणम् उभेपि त्यक्तव्ये ।
  • अकारस्य संवृतत्वम् — स्वरेषु प्रायः आदिमस्य अकारस्य एव उच्चारणशैली आभारतं सुतरां भिन्ना । अष्टाध्यायाः ‘अ अ’ इत्यन्तिमसूत्रम्5 अकारस्य संवृतत्वं विधत्ते इत्याचार्यबोधः । तन्नाम किम्? संवृतत्वं तद्विपरीतं विवृतत्वं च कण्ठद्वारस्य केचन स्थिती । कण्ठे विवृते कण्ठद्वारम् उरु भवेत्; संवृतकण्ठे तद्द्वारस्य लाघवम् । अकारनिमित्तं संवृतत्वं सांस्कृतिकं, न तु द्रमिडादिभाषासु विहितं । अतः द्रमिडादिभाषाभिः वक्तारः, संस्कृतनिमित्तम् अकारम् उच्चारयन्तः, सावधानेन संवृतकण्ठं कुर्युः । उत्तरभारतीयासु कासुचिद्भाषासु फारसीयभाषायाः प्रभावेन अकारः कादाचित्केन उच्चार्यते । सापि प्रक्रिया संस्कृते नानुसरणीया ।
  • दन्ताः न दन्तकृपिकानिमित्ताः — प्राचीनायाः द्रमिडभाषायाः, ततो जातानां मलयालादिभाषाणां किञ्चन वैशिष्ट्यं, यत् दन्त्यमूर्धन्यव्यञ्जनान् विहाय दन्तकृपिकातः सृष्टानि6 अक्षराण्यपि सन्ति7 । संस्कृते तु दन्त्याः एव न कृपिकाजाः । दन्त्याक्षरेषु उच्चार्यमाणेषु, जिह्वा दन्तावलीभ्यां बद्धा भवेत्, न्यूनातिन्यूनं दन्तान् स्पृशेत् । तद्दन्त्यत्वं तथदधानां यावत् अनुष्ठीयते तावत् नकारस्य न इति भाति । महाराष्ट्रीयाः एव नकारमेवं समुच्चारयन्ति इत्यनुभवः । लकारस्यापि इयमेव स्थितिः ।

चर्चार्हाः प्रश्नाः

  • ळकारः — ळडयोः कश्चित् सम्बन्धः छान्दसः । तन्निमित्ता नियमाः के? किमर्थं असौ ळकारोऽन्यत्र संस्कृतव्याकरणे न दृश्यते? दक्षिणभारतीयभाषासु ळकारप्रयुक्तिः (मङ्गळादिशब्देषु) असंस्कृता वा?
  • वकारः — यथा अक्षु (अकार इकार उकार ऋकार ऌकारश्च तेषु) प्रत्येकम् उच्चारणस्थानस्य प्रतिनिधयः अन्तर्भूताः सन्ति, तथैव यरलवेष्वपि8 । इयम् अवस्था संस्कृतवर्णमालायाः सौन्दर्यम् । किन्तु अपवादः कश्चित् अत्रत्यः । वकारः केवलोष्ट्यो न, प्रत्युत दन्तोष्ट्यः । किमर्थम् अपवादः? संस्कृतसम्बद्धासु इतरभाषासु यवनादिषु केवलोष्ट्यम् अन्तःस्थम् अक्षरं (w) विद्यते । किं तदेव संस्कृतेपि केवलोष्ट्यम् आसीत्, कालक्रमेण पाणिनेः प्राक् दन्तोष्ट्यं सञ्जातम्?
  • अनुनासिकेभ्यः हकारः — धारावाहिना अक्षरोच्चारणेन शब्दोच्चारणं सिध्यति । व्यवहारे तु एकाकी अत्र अपवादः अनुनासिकव्यञ्जनात् पूर्वस्थः हकारः । एके हकारं त्यजन्तः परस्य अक्षरस्य द्वित्वं साधयन्ति । अपरे पूर्वस्थं हकारं परं कल्पयन्ति – ‘चिह्नं’ पदं ‘चिन्ह’-वत्, ‘ब्रह्म’ ‘ब्रम्ह’-वत् उच्चारयन्तः । ईदृक् पदस्य अन्तःस्थं प्राणपर्यटनं अन्यत्रापि दृश्यते – लब्धं धोक्षि इत्यादिषु । किन्तु तानि परिवर्तनानि सूत्रबलात्9 सिद्धानि । तादृशः सूत्रस्य अभावात् हकारस्य इदं प्रयाणं कथं साध्यमिति प्रश्नः सम्पद्यते ।
  • अनुस्वारः — अग्रिमात् अक्षरात् अनुस्वारः चेत् परिवर्तेत, तथाभूतस्यानुस्वारस्य उच्चारणं सुकरम् नासिक्यवत् । अन्यत्र तस्य उच्चारणं प्रतिदेशं भिद्यते । सुष्ठु उच्चारणविधिः अन्वेषणीयः ।
  • विसर्गः — दक्षिणभारते, तत्प्रभावात् उत्तरेपि, विसर्गो स्वरसहितहकारवत् उच्चार्यते । स च स्वरः पूर्वतनस्य स्वरस्य अनुगुणं चीयते । रामः रामहवत्, हरेः हरेहेवत्, गौः गौहुवच्च । एषा परम्परा सुतराम् अशुद्धा । विसर्गः अर्धमात्रः, न तु सममात्रः । पाणिनीयशिक्षायाः वृद्धपाठ आह यत् विसर्जनीयः विवृतकण्ठः श्वासानुप्रदानः अघोषः । हकारः संवृतकण्ठः नादानुप्रदानः घाषवांश्च । विसर्गः कथम् उच्चार्यः इति आलोचनीयम् ।
  • स्वराः — स्वराः त्रेधा उक्ताः उदात्तानुदात्तस्वरिता इति । अद्य वेदमात्रप्रभावाः, परन्तु तत्प्रयोगः सार्वत्रिकः आसीत् इति तु स्पष्टम् । तेषां साधूपयोगेन समासादिकमपि असन्दिग्धं भवेत् । पुनश्च ते कथं व्यवहारम् आनेतव्याः?
॥ इति शम् ॥


1 यद्यपि द्रमिडायां वाचि सकारो न ज्ञायते, अद्यत्वे सकारनिमित्तः क्लेशो न विद्यते ।
2 Wikipedia on places of articulation
3 Shriramana Sharma on ऌ
4 अष्टाध्यायी, १.४.१०-१.४.१२
5 अष्टाध्यायी, ८.४.६८
6 Wikipedia on alveolar consonants
7 भारतीयाः द्रमिडाः अद्यत्वे कृपिकादन्त्यभेदं न पालयन्ति परन्तु लङ्कास्थैः द्रमिडैः स भेदः संरक्षितो राजते ।
8 यरलवेषु कण्ठ्यप्रतिनिधिः न विद्यते अपि ।
9 एकाचो बशो भष् झषन्तस्य स्ध्वोः, झषस्तथोर्धोधः ।