2011-01-23

काकः गरुडायते

दक्षिणाफ्रिकादेशः अतिसुन्दरैः वन्यप्रदेशैः अलङ्कृतः वर्तते । तेषु प्रदेशेषु नैकानि राष्ट्रियोद्यानानि अन्तर्गतानि सन्ति यत्र नानाविधाः विचित्राः प्राणिनः विराजन्ते । उद्यानानां बृहत्तमं Kruger-उद्यानं ८५ वर्षेभ्यः प्राक् सर्वकारेण संस्थापितम् आसीत् । यद्यपि विरलतराः बहवः वनस्पतयः तत्र शोभन्ते, तथाऽपि उद्यानं जङ्गमानां कारणादेव सुविख्यातम् अस्ति । आफ्रिकाखण्डस्य “बृहत्पञ्चकाः” इत्याह्वयाः सिंहगजमहिषचित्रकगण्डाः तत्र दर्शनार्हा इति उद्यानस्य माहात्म्यम् । तत्रैव तीक्ष्णदन्ताः मकराश्च नदीः परिरक्षन्ति, तीक्ष्णखड्गाः रक्षकाः प्राकारान् इव ।
२००४-संवत्सरस्य September-मासे तत्रत्या काचित् घटना जाता । सौभाग्यं यत् अद्भुतः सम्भवोयं चलनचित्रयन्त्रेण गृहीत्वा कैश्चन पर्यटकैः चलनचित्रं रचितम् ।
जलबन्धकात् जातस्य तडागस्य तीरे महिषाः तृष्णां प्रशान्तुम् आयाताः । पार्श्वस्थाः सिंह्यः तद्वीक्षमाणाः कल्पिताहाराः सत्यः आक्रान्तुं सिद्धा अभवन् ।
महिषसमूहे तीरम् उपगते सति सिंह्यः आक्रमणं प्रारभन्त । भयत्रस्तमनसः महिषा इतस्ततः परिधावन्तः क्षेमोपायम् अन्विष्टवन्तः । सिंह्यस्तु दुर्बलान् निष्कपटान् वत्सान् एव वध्यान् अमन्यन्त । तदर्थं गवलसमूहम् इतस्ततः विद्रुत्य एकाकिनं वत्सं पदे कृत्वा जले अपातयन् । यावत् स वत्सः भीत्युन्मत्तः पदैः जलम् अताडयत्, तावत् जलवासी मकरः अकस्मात् उद्भूतः गभीरजलं प्रति वत्सम् आकर्षयत् । प्रचलिते मकरसिंहीनां युद्धे विजितवत्यः सिंह्यः मांसं भोक्तुं यावत् उद्यताः तावत् ताः महिषैः पुनरेकीभूय उपागताः ।
तथापि सिंहीनां भोजनं प्रवर्तमानम् एव । पर्यटकानां ध्वनिमुद्रितं मतं यत् स वत्सः मृतप्रायः इति । परन्तु झटिति एकः महिषः सिंहीभ्यः दुर्बलतमः सन्नपि ताः उपेत्य पद्भिः प्रहर्तुम् आरभत । काको गरुडायते स्म ।
तद्गरुडेन प्रेरिताः इतरे काकाः अपि आक्रान्तुकामाः सिंहीभयहेतवः परिवर्तिताः । सिंह्याः उत्क्षेपेण संग्रामः समारब्धः । रणभूम्या भूयः रक्तप्रवाहः दृष्टः ।
प्रवर्तमाने युद्धे स वत्सः रुधिरमयचर्मा, आत्मानं प्राप्तजीवनं मत्वा स्वसमूहमध्यम् अगच्छत् । तस्य पुनर्जीवनं कुटुम्बे पुनस्साहसम् अजनयत् । महिषैः कृतात् अन्तिमात् आक्रमणात् सिंह्यः सपरिवाराः पलायन्त ।
चित्रमिदं जालपुटात् लब्धुं शक्यते । भवद्भिः अदृष्टवद्भिः अवश्यं दृश्येत ।






No comments:

Post a Comment